सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Besuch unbedingt die Website des Podcasts und unterstütze die Macher: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategorie
Podcast-Website
Neueste Folge
18. Okt 2026
Wo hören?
Podcasts in der App Replaio Radio Bald verfügbarPodcasts kommen bald in die App. Installiere sie jetzt und erlebe als Erster einen ganz neuen Blick auf Podcasts
Folgen
पश्य मे रूपाणि .... 25.07.2025 6:02
महाभारते विद्यते अयं श्लोकः - 'न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ।। ' कथायाम् अस्यां श्रीपतिः नाम कश्चित् कृषिवलः यद्यपि श्रीविठ्ठलस्य परमभक्तः तथापि तस्य साहाय्यार्थम् आगतवन्तं देवं न परिज्ञातवान् । अतिवृष्टेः कारणतः समीपवर्तिनी नदी मर्यादाम् उल्लङ्घ्य ग्रामं प्राविशत् । सर्वे ततः पलायितवन्तः श्रीपतिं विहाय । ' श्रीविठ्ठलः मां रक्षति' इति तस्य च...
प्रकृतिं यान्ति भूतानि 24.07.2025 6:17
कदाचित् अकबर-बीरबलयोः संवादसमये बीरबलः अवदत् यत् मार्जारस्य शिक्षणं कष्टम् इति । किन्तु अकबरः प्रयत्नेन सर्वं साधयितुं शक्यं इति विचिन्त्य षड् मासान् यावत् षड् मार्जारान् शिक्षितवान् । भोजनसमये तेषां मार्जाराणां मस्तकेषु दीपं संस्थाप्य अकबरः तद्दीपप्रकाशे भोजनं करोति स्म । कदाचित् स्वीयभोजनसमये बीरबलः समाहूतः । एतत् सर्वं दृष्ट्वा बीरबलः अपि विस्मितः । बीरबलः परेद्युः अपि भोजनसमये अगच्छत् । यदा...
न नीयते सूची अपि 23.07.2025 3:14
लाहोरनगरे पूर्वं दुलीचन्दः नाम कोट्यधिपतिः धनिकः निवसति स्म । कदाचित् दर्शनार्थं आगतवन्तं दुलीचन्दं दृष्ट्वा गुरुनानकः अवगतवान् यत् एतस्य धनमदः अधिकः अस्ति इति । अतः सः एकां सूचीं दुलीचन्दाय दत्त्वा अग्रिमजन्मनि प्रत्यर्पणीया इति अवदत् । किञ्चित्कालानन्तरं दुलीचन्दः अवदत् यत् कथं सूचीम् अग्रिमजन्मनि प्रत्यर्पयितुं शक्यते इति । तदा गुरुनानकः अवदत् 'मरणसमये येन एका सूची अपि नेतुम् अशक्या, भवान् स्वस...
नीलमाधवः 22.07.2025 6:51
भारतस्य पूर्वतटे 'जगन्नाथपुरी' नाम महत् पवित्रं क्षेत्रमस्ति इति तु वयं जानीमः एव । राजा इन्द्रद्युम्नः एव तस्य मन्दिरस्य निर्माणं कृतवान् । जगन्नाथस्य मूर्तिः नेत्रमात्रयुक्ता अस्ति । किमर्थं हस्तपादविरहिता मस्तकयुक्ता मूर्तिः तत्र दृश्यते इति जानन्ति वा ? सा मूर्तिः अधुना अपि भक्तान् 'यः प्रभुकार्यं कर्तुम् इच्छति, सः अहङ्कारं त्यजेत् एव' इति उपदिशति । एवं किमर्थम् इति सर्वम् इमां स्वारस्यकारीं...
जनप्रीतिः 21.07.2025 4:01
कश्चन अविवेकी, उद्धतः, कोपशीलः, विलासी च राजा प्रजाभ्यः अधिकं करं स्वीकरोति स्म । अथ कदाचित् सञ्चरन्तौ राजपुत्रौ अश्वाभ्याम् पतितवन्तौ । राजपुत्रौ इति ज्ञात्वा जनाः तयोः साहाय्यं न कृतवन्तः । 'भवतोः पिता अस्मान् पीडयन् अस्ति । निर्गच्छताम् इतः' इति अवदन् । अग्रे गच्छन्तौ तौ वृषभेन तुम्फनं प्राप्य व्रणितं निर्धनं बालकमेकं शुश्रूषया सत्कृत्य गृहं प्रापितवतः जनान् दृष्टवन्तौ । प्रासादम् आगतौ पुत्रौ र...
अत्याज्या जन्मभूमिः 21.07.2025 3:32
पुरा कौशिकीनद्याः जलौघकारणात् बहवः ग्रामाः जनशून्याः जाताः । कस्यचन वृद्धकृषकस्य कुटुम्बजनाः अपि कष्टम् अनुभूतवन्तः । ग्रामम् अपि त्यक्तुम् इच्छन्ति स्म । कदाचित् शौचार्थं गतेन वृद्धेन पत्रविहीने शुष्के आम्रवृक्षे एकः काकः दृष्टः । तत् दृष्ट्वा वृद्धः अचिन्तयत् यत् शुष्केऽपि वृक्षे अयं काकः वृक्षमेतं परित्यज्य अन्यत्र न गतः । किं वयं काकादपि अधमाः जाताः?’ इति । एतत् सर्वं ज्ञात्वा गृहजनाः ग्रामत्...
अमृतं प्राप्तुम् अर्हति सः एव 21.07.2025 5:27
आसीत् रामदासः नाम कश्चित् गुरुः यः शिष्याणां परीक्षां कर्तुम् ऐच्छत् । तदर्थं सः एकं फलं पादे संस्थाप्य, तं वस्त्रपट्टिकया बद्धवान् च । वेदनायाः शान्त्यर्थं तस्मात् पिटकात् स्वमुखेन पूयं चूषणीयम् इति यदा गुरुः शिष्येभ्यः वदति तदा शिष्याः स्तब्धाः अभवन् । 'गुरुः प्राणरक्षणार्थं किं भवत्सु कोऽपि नास्ति किम्?’ इति गुरुः यदा पृच्छति तदा सहसा एव कश्चन शिष्यः पिटकात् मुखेन पूयस्य चूषणम् आरब्धवान् । आश्च...
यथा सूचितं तथैव कृतम् 21.07.2025 4:45
कदाचित् ज्वरेण ग्रस्तः कश्चन मूर्खः पण्डितः वैद्यसमीपम् अगच्छत् । 'भवता लङ्घनं करणीयम्' इति वैद्यः उक्तवान् । मूर्खः पण्डितः गृहस्य पुरतः स्थितायाः कुल्यायाः उल्लङ्घनम् अकरोत् । ज्वरः अधिकः जातः । पुनः सैन्धवलवणं सेवनीयम् इति वैद्यः अवदत् । कोषे तस्य अर्थः आसीत् अश्वमलम् इति । सः तम् असेवत । पुनः वैद्यः अवदत् कण्टकारिकषायः सेवनीयः इति । कोषे तस्य अर्थः पादरक्षा इति आसीत् । जीर्णया पादरक्षया कषायं...
करुणाशाली 17.07.2025 4:10
पूर्वं तमिळुराज्यं द्विधा विभक्तम् आसीत् । तयोः राज्ययोः राज्ञोः किल्लबलवन-मलयमानयोः मध्ये कदाचित् वैमनस्यम् उत्पन्नं, युद्धं च प्रवृत्तम् । युद्धे मलयमानः पराजयं प्राप्य अरण्यं प्रति अधावत् । तस्य त्रीन् पुत्रान् भटाः धृतवन्तः । किल्लबलवनः निर्दोषबालान् गजस्य पादतले पातयित्वा मारणीयमिति निश्चितवान् । बालानां दयनीयावस्थां दृष्ट्वा जनाः मौनेन स्थितवन्तः । किन्तु महाकविः कोवूरकिलारः न केवलं विरोधं अ...
दैवचित्तस्य गतिः अनूह्या 16.07.2025 5:21
कृष्णचन्द्रनामकस्य कस्यचन महाधनिकस्य सर्वविधानि आनुकूल्यानि सन्ति चेदपि सः अनित्यस्य जीवनस्य चिन्तया व्याकुलः आसीत् । कदाचित् प्रवचनकारेण उक्तम् - ‘देवाः अमृतसेवनात् चिरञ्जीविनः नित्यसुखिनः......’। एतत् श्रुत्वा अमृतलाभाय कृष्णचन्द्रः इन्द्रदर्शनार्थं तपः आचरितवान् । सन्तुष्टः इन्द्रः अमृतपूर्णं घटमेकम् तस्मै दत्त्वा उक्तवान् यत् घटः अधः न स्थापनीयः इति । किन्तु सः शौचशङ्कां प्राप्य तडागस्य समीपे...
गुरूणां पूजा 15.07.2025 2:48
कदाचित् वेदनिधिः महर्षिं व्यासं पृष्टवान् "भगवन्, मानवाः भवता भृशम् उपकृताः । अतः मानवा: भवद्विषये केन प्रकारेण श्रद्धां समर्पयेयुः?" इति । महर्षिः व्यासः अवदत् "केवलं मम पूजनं वा स्तुतिं वा कृत्वा मम प्रीतिः न भवति । सर्वत्र धर्मेषु, सम्प्रदायेषु, गुरुषु च मम अंशः विद्यते । अतः स्वस्य स्वस्य गुरुणां पूजा एव मम पूजा । एषा पूजा आषाढपूर्णिमायाम् आचर्येत" । तस्मात् दिनात् आषाढपूर्णिमा 'व्यासपूर्णिमात...
यथा भावः तथा फलम् 14.07.2025 3:14
कस्मिंश्चित् कुटुम्बे उभौ भ्रातरौ आस्ताम् । तयोः पिता मध्यपानं कृत्वा गृहे सर्वदा कोलाहलं करोति स्म । एतत् दृष्ट्वा तयोः अन्यतरः अचिन्तयत् यत् मया स्वीये जीवने एवं न भवितव्यमिति । अतः सः सर्वाः बाधाः अविगणय्य अध्ययने निरतः अभवत् । उच्चपदवीं च प्राप्तवान् । किन्तु अन्यः भ्राता गृहस्य कलहपूर्णेन वातावरणेन अध्ययने अनासक्तः जातः । अनुचितेषु कार्येषु प्रवृत्तः चौर्यस्य कारणेन कारागारे प्रविष्टः । एकम्...
सर्वे भवन्तु सुखिनः 13.07.2025 5:51
सम्राजः अशोकस्य जन्मदिनम् आचर्यमाणम् आसीत् । तस्मिन् महोत्सवे बहवः अधीनराजाः स्वस्वराज्यस्य प्रगतिं गर्वेण निवेदितवन्तः। केचन करशुल्कवृद्ध्या, केचन शत्रुविजयेन, केचन कर्मकराणां वेतनकर्षणेन अधिकं धनं सञ्चितवन्तः इति गर्वेन अवदन् । केवलं मगधराजः विनयेन अशोकं प्रति अवदत् – "मम कोषे गतवर्षस्य अपेक्षया अर्धम् अपि धनं नास्ति । मया कर्मकराणां सुखाय, प्रजानां हिताय, चिकित्सालयानां, कूपानां, वसतिशालानां, प...
शङ्करः करुणाकरः 12.07.2025 9:57
भगीरथप्रयत्नं गङ्गावतरणकथां च वयं जानीमः । दक्षिणे भारते शङ्करभक्तः सुकेशी नामा राजा तपसा शङ्करं तोषयामास । तेन गङ्गायाः दक्षिणदेशे तीर्थरूपेण आगमनं प्रार्थितम् । शङ्करः एकं फलं दत्त्वा गुप्तरूपेण गङ्गायाः आगमनं कथितवान् । तस्य आराधनाय विशेषविधिं च दर्शितवान् । तस्मात् दिव्यं फलं नारिकेलरूपेण, गङ्गाजलेन पूर्णं, पावनतायाः प्रतीकम् अभवत्। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एत...
त्रयः प्रश्नाः 11.07.2025 6:32
कश्चित् राजा प्रश्नत्रयात् चिन्ताक्रान्तः आसीत् । तत् च 'सत्कार्यं कर्तुं कः कालः उचितः? महत् कार्यं किम्? सर्वस्मात् उत्कृष्टः क:?’ इति । सः कञ्चन आश्रमं गत्वा तत्रत्यं साधुं पृष्टवान् । सः साधुः किमपि उनुक्त्वा सस्यानाम् आलवालनिर्माणकार्ये मग्नः आसीत् । तदनन्तरं यत् प्रचलितं तेन प्रश्नानाम् उत्तराणि प्राप्तानि राज्ञा । किं प्राचलत् तत्र? तदनन्तरं साधुः राजानम् किं बोधयति ? इति सर्वं सावधानतया कथ...
सर्वं सुष्ठु 10.07.2025 3:56
कदाचित् निद्रामग्नस्य पान्थस्य पार्श्वे स्थितात् पात्रात् कश्चन शुनकः अन्नम् अखादत् । जागरितः पान्थः पात्रे किमपि नास्ति इति ज्ञात्वा परमेश्वरं साहाय्यं याचित्वा रोदनम् आरब्धवान् । कैलासे स्थिता पार्वती पान्थस्य साहाय्यं कर्तुं परमेश्वरं वदति । तदा शिवः वदति यत् 'सः पान्थः तत् अन्नं निद्रामग्नायाः वृद्धायाः शिरोमूलतः अपहृतवान् अस्ति । अनुचितं कार्यं कृतम् अनेन इदानीम् अनुभवन् अस्ति' इति । तथापि प...
वणिजः बुद्धिमत्ता 09.07.2025 4:05
कदाचित् गृहे उपविश्य नाणकानि गणयन्तं वणिजं दृष्ट्वा अद्य एतस्मात् गृहात् चोरणीयम् इति चोरः अचिन्तियत् । तम् चोरम् अकस्मात् वणिक् दृष्ट्वा 'एषः चोरः स्यात्, अद्य मम गृहमागत्य चोरयेत्' इति विचिन्त्य कमपि उपायं कृत्वा पत्नीम् अपि सूचितवान् । रात्रौ यदा चोरः आत्मानं गोपयित्वा गृहात् बहिः स्थितवान् आसीत् तदा पतिपत्न्योः मध्ये प्रचलितं सम्भाषणं श्रुत्वा चोरेण ज्ञातं यत् धनयुक्तः घटः निम्बवृक्षशाखायाम्...
किं न साध्यम् अभ्यासेन ? 08.07.2025 7:28
मिथिलानगरे महाराजेन हरसिंहदेवेन आयोजिते वीरप्रदर्शनकार्यक्रमे कश्चन पालनामकः ब्राह्मणः तस्य चतसृभिः पुत्रीभिः सह आसीत् । किशोरचौधरीनामकस्य मल्लस्य वीरप्रदर्शनं दृष्ट्वा महाराजः तम् अभिनन्द्य, तस्मै उपायनानि च अयच्छत् । पालस्य कनिष्ठा पुत्री उत्थाय 'अनेन महत् कार्यं किं कृतम् ? अभ्यासेन मानवः किमपि साधयितुं शक्नोति' इति अवदत् । क्रुद्धः राजा सा राज्यात् निष्कासनीया इति अवद्त् । सा बालिका प्रतिज्ञां...
दृढा मातृभक्तिः 07.07.2025 2:37
आशुतोषमुखर्जी कोलकाताविश्वविद्यालयस्य कुलपतिः कोलकातायाः उच्चन्यायालयस्य न्यायाधीशश्च आसीत् । एतम् इङ्गलेण्डं प्रति प्रेषयितुम् ऐच्छत् तत्कालीनः सर्वकारः । किन्तु धार्मिकैः कारणैः मात्रा न अनुमन्यते । मातुः आज्ञां शिरसा वहन् आशुतोषमुखर्जी सर्वकारं सूचयति । एतत् ज्ञात्वा कठोरमनस्कः लार्ड् कर्झनः कोपाविष्टः जातः । तस्य आदेशस्य तिरस्कारं कोऽपि कर्तुं न अर्हति स्म । तथापि आशुतोषः अल्पाम् अपि भीतिम् अ...
सा योग्यता 06.07.2025 4:41
यद्यपि बहवः ऋषयः जनकमहाराजस्य आगमानात् पूर्वमेव आगच्छन्ति स्म तथापि महर्षिः याज्ञवल्क्यः जनकमहाराजस्य अगमानानन्तरमेव उपदेशस्य आरम्भं करोति स्म । 'जनकमहाराजे अस्मासु अविद्यमाना का योग्यता अस्ति?’ इति ऋषीणां परस्परं वार्तालापः याज्ञवल्क्येन ज्ञातः । सः तेषां बोधनाय एकम् उपायं चिन्तितवान् । कदाचित् धर्मोपदेशसमये कश्चन वटुः आगत्य 'कुटीराणि अग्निना ज्वलन्ति अस्ति' इति यदा वदति तदा सर्वे ऋषयः धावित्वा...
सद्यः प्रक्षालकवृत्तिः 05.07.2025 6:06
कश्चन दैवभक्तः महाराजः तस्य परमसुन्दरीं भक्तिमतीं च पुत्रीं भगवति यस्य सम्पूर्णः विश्वासः भवति तस्मै दातुम् इच्छति । कदाचित् सुप्रसन्नं, कौपीनधारिणं, भगवतः पुरतः स्थित्वा ध्यायन्तं च तरुणं दृष्ट्वा कांश्चन प्रश्नान् राजा अपृच्छत् । तस्य उत्तराणि श्रुत्वा सानन्दं तेन सह पुत्र्याः विवाहं कारितवान् । गृहगमनसमये कस्यचित् वृक्षस्य कोटरे स्थापितं जलं रोटिकाखण्डं च तरुणः पत्न्यै अयच्छत् । पतिः भगवति विश...
यद्यदाचरति श्रेष्ठः..... 04.07.2025 2:45
कश्चन वृद्धः प्रतिदिनं प्रवचनं श्रोतुं गृहस्य समीपस्थम् आश्रमं गच्छति स्म । गच्छता कालेन तस्य श्रवणशक्तिः न्यूना जाता चेदपि सः प्रवचनं श्रोतुं गच्छति स्म । एकदा प्रवचनकारेण कारणे पृष्टे वृद्धः वदति 'अहं परिवारस्य प्रमुखः अस्मि । अहम् अत्र आगच्छामि इति ज्ञात्वा मम परिवारजनाः अपि आगच्छन्ति । तेन तेषां हृदये भगवतः विषये श्रद्धा जीविता तिष्ठति । अतः श्रोतुम् अशक्तः अपि अहम् अत्र आगच्छामि' इति । प्रवचन...
कुटीरपरिवर्तनम् 03.07.2025 3:25
कस्यचन वणिजः गृहम् उभयतः द्वौ लोहकारौ कुटीरं निर्माय प्रतिदिनं प्रातः आरभ्य रात्रिपर्यन्तं कार्यं कुरुतः । आदिनं कर्कशं लोहकुट्टनशब्दं सोढुम् अशक्नुवन् वणिक् एकम् उपायं करोति । परेद्यवि ताभ्यां लोहकाराभ्याम् अन्यकुटीरगमनार्थं सहस्रं रूप्यकाणि अयच्छत् । उभौ अपि अङ्गीकृतवन्तौ । किन्तु अग्रिमदिवसे पुनः कुट्टनशब्दं श्रुत्वा यदा वणीक् तौ पृच्छति तदा तौ वदतः 'आवां कुटीरपरिवर्तनं कृतवन्तौ । वामभागे कुटीर...
सः एव साधुः 02.07.2025 5:01
कदाचित् कश्चन शिष्यः बौद्धधर्मप्रसारणार्थं सूनप्रातपरिषदं गन्तुम् इच्छामि इति बुद्धं वदति । बुद्धः सर्वदा गमनसमये शिष्याणां मनोबलं सम्यक् परिशील्य एव तान् अन्यत्र प्रेषयति । अतः बुद्धः एतं शिष्यं परीक्षते । बुद्धः बहून् प्रश्नान् पृच्छति, भाययति च । किन्तु शिष्यः किञ्चिदपि विचलितः न अभवत् । शिष्यस्य मुखात् निर्गतानि वचनानि श्रुत्वा तस्य ज्ञानं धैर्यं च ज्ञात्वा बुद्धः अत्यन्तं सन्तोषम् अनुभूत...
वैराग्यस्य महिमा 01.07.2025 4:01
इयं कथा पितापुत्रयोः व्यासशुकदेवयोः मध्ये संवादरूपेण वर्तते । शुकदेवः यदा जन्म प्राप्तवान् तदा एव उत्थाय पितरं नमस्कृत्य वनं गन्तुं सज्जः अभवत् । पुत्रस्य एतादृशं व्यवहारं दृष्ट्वा विस्मितः व्यासः पुत्रस्य मनसि कथमपि संस्कारविषये आसक्तिः जनयितव्या इति मत्वा बहून् विषयान् वदति । परन्तु केनापि शुकदेवः न विचलति । वादप्रतिवादयोः अनन्तरं व्यासः विरक्तः सन् पुत्रस्य वनगमननिर्णयम् अङ्गीकरोति । (“केन्द्री...
Replaio ist kein Herausgeber von Podcasts; die Namen der Sendungen, Cover und Audioinhalte gehören ihren Autoren und werden über öffentliche RSS-Feeds verbreitet