सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 713 episoder

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Husk at besøge podcastens hjemmeside og støtte skaberen: sambhashanasandesha.in

Forfatter

सम्भाषणसन्देशः

Kategori

Kids

Podcastens hjemmeside

sambhashanasandesha.in

Seneste episode

15. okt. 2026

Hvor kan du lytte?

Podcasts i appen Replaio Radio Kommer snart

Podcasts kommer snart til appen. Installer nu, og vær den første til at se en helt ny tilgang til podcasts

Hent den på Google Play Installer gratis Android næsten 10 mio. downloads · 4,8 i bedømmelse iOS snart

Episoder

नूनता कच्छपबककथा 26.08.2026

काचित् पुत्री शयनसमये जनकम् एकां कथां श्रावयितुम् अवदत् । तदा पिता कच्छपबककथां वक्तुम् आरभते । तदा पुत्री तम् अवरुणद्धि । यतः तत्र कच्छपस्य मरणं भवति इति कारणतः । किन्तु पिता वदति यत् नूतनां कच्छपबककथां वदामि इति । कथायां तस्यां कच्छपस्य हानिः न भवति इति श्रुत्वा आनन्दिता पुत्री निद्रां कृतवती । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) One...

ह्यस्तनरोटिकाः 25.08.2026

कस्मिंश्चित् कुटुम्बे पुत्रः माता पिता चेति त्रयः‌ सदस्याः आसन् । पुत्रः‌ रामः यद्यपि अध्ययने निपुणः तथापि कदापि किमपि कार्यं‌ न करोति स्म । विवाहोत्तरमपि सः तथैव आसीत् । तस्य पत्नी उमा बुद्धिमती व्यवहारकुशला च आसीत् । अल्पे एव काले पिता दिवं गतः । तथापि रामः कार्ये धनसम्पादने वा प्रवृत्तः न जातः । माता स्नुषा च मिलित्वा कमपि उपायं कृत्वा रामस्य कर्तव्यं किम् इति ज्ञापयतः । ततः सः परिश्रमपूर्वकं ध...

भगवतः अस्तित्वम् 24.08.2026

देवः देवालये शिलारूपेण मूर्तिरूपेण वा न भवति । सः जनानां हृदये भवति । दीनानां रुग्णानां दरिद्राणां च प्रतिफलनिरपेक्षया सेवा करणीया । तस्मात् देवः सन्तुष्टः भवति । भगवदनुग्रहः अपि प्राप्यते । इयं कथा एतस्य उत्तमम् उदाहरणं भवितुमर्हति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) God does not exist only in temples or in stone idols. He lives in...

अहं न अधिकारी .... 23.08.2026

पिपासया बाधितः कश्चन यात्रिक: कञ्चन कूपम् अपश्यत् । स: कृषकस्य समीपं गत्वा रज्जुं घटं च अयाचत । कृषक: राज्ज्वादिकम् आनीय कूपात् जलम् उद्धृत्य यात्रिकम् अपाययत् । कूपस्य जलम् अमृतोपमयम् आसीत् इति यात्रिक: अवदत् । किन्तु स: कृषक: तावत् पर्यन्तं जलस्य उपयोगं न कृतवान् आसीत् यत: तेन कूपखननार्थम् ऋणं स्वीकृतम् आसीत् । ऋणप्रत्यर्पणपर्यन्तं कूपजलस्य उपयोगे स: अनधिकारी इति मन्यते स्म । (“केन्द्रीयसंस्कृतव...

मानवायुषः इतिवृत्तम् 22.08.2026

यदा भगवान् ब्रह्मा जगत् असृजत् तदा सर्वान् आहूय पञ्चविंशतिवर्षात्मकम् आयुः किं पर्याप्तम् ? इति अपृच्छत् । तदा मानवः तावत् न पर्याप्तम् इति अवदत्  । तदा गर्दभः कुक्कुरः उलूकः च स्वस्य स्वस्य वयसः पञ्चविंशतिं वर्षाणि मनुष्यस्य कृते दातुम् अर्हति भवान् इति भगवन्तम् अवदन्  । अधुना मानवेन शतायुष्कत्वं प्राप्तम् । अतः एव मनुष्यः आदौ पञ्चविंशतिं वर्षाणि मनुष्यः इव जीवनं, पुनः पञ्चविंशतिं वर्षाणि गर्दभः...

सङ्गः ईश्वरस्य मानवस्य च 21.08.2026

सूफीमतस्य साधुषु अन्यतमः खय्यामः शिष्येण केनचित् सह परिभ्रमति स्म । ग्रामात् ग्रामं गच्छाद्भ्यां मार्गस्य निबिडम् अरण्यमेकं क्रमणीयम् अभवत् । तदा विलक्षणं घटनाद्वयं समभवत् । यदा शिष्यः गुरोः विलक्षणस्य व्यवहारस्य कारणम् अपृच्छत् तदा खय्यामः ईश्वरस्य मानवस्य च सङ्गः कारणम् इति विवृत्य ईश्वरे दृढा श्रद्धा स्थापनीया, भगवान् पदे पदे अस्मान् परीक्षते.... इत्यादीनि हितवचनानि अवदत् । (“केन्द्रीयसंस्कृतवि...

साधोः सम्पत्तिः 20.08.2026

सुवर्धनामकः कश्चन नृपः प्रजानां समस्यानां परिहारं यथाशीघ्रं करोति स्म | कदाचित् कस्यचन साधोः स्थालिकां पीठम् उपाधानं भिक्षापात्रं ढप्पली (एकं वाद्यं) च चोरिताः जाताः | राजा अनुक्षणं भटान् अन्वेषणाय प्रेषितवान् | केषाञ्चन दिनानाम् अनन्तरं कञ्चित् जनं निगृह्य नृपस्य अभिमुखम् आनयन् भटाः | किन्तु तेन चोरेण केवला स्थालिका एव चोरिता आसीत् | तदा साधुः अवदत् सः स्थालिका एव उपाधानत्वे, रोटिकानिर्माणसमये पी...

हृदये सुगन्धः 19.08.2026

कस्यचन अधिकारिणः मुहुः स्थानान्तरस्य आदेशः आगतः | अन्यत् नगरं प्रति गमनावसरे भवन्ति कार्याणि बहूनि | कार्यालयस्य कोऽपि कर्मचारी तस्य साहाय्यार्थं न आगतः | रेल्वेस्थानकं प्रति सर्वाणि वस्तूनि तेन स्वयं नीतानि | आप्रच्छानार्थम् अपि कोऽपि कार्यालयीयः जनः न आगतः इति विषादेन मनसि एव अहसत् सः अधिकारी | तावता कश्चन सेवकः पुष्पमालाहस्तः सन् वेगेन स्थानकम् आगच्छत् | अधिकारिणः प्रीतिः उपकारः च न विस्मृतः ते...

भोजने रुचिः त्यज्यताम् 18.08.2026

कश्चन महर्षेः पुत्रः उलूकः मन्दमतिः | यद्यपि सः गुरुकुले वसति स्म, तथापि गुरुणा बोधितं किमपि न अवगच्छति स्म | कदाचित् गुरुः अवदत् 'पठने रुचिः नास्ति चेत् गुरुकुलं परित्यज्य गच्छ' इति | विषादेन सः पर्वतशिखरं गत्वा तपः आचरितवान् | वृद्धवेषधारी ईश्वरः आगत्य किञ्चन तत्वं बोधितवान् | तदनन्तरमेव सः अध्ययनं समाप्य ज्ञानी जातः | महर्षिः अपि | तस्य एव नाम कणादः इति यः वैशेषिकदर्शनस्य प्रवर्तकः सन् परमाणुतत...

न अहं भुजङ्गः 17.08.2026

बाणभट्टः प्रसिद्धः कविः । चित्रभानुराजदेव्योः पुत्रः सः । चतुर्दशे वयसि पितृवियोगे सति दुःखं विस्मर्तुं देशाटनम् आरब्धवान् । तारुण्ये सः ग्रामम् आगत्य स्वस्य प्रवासानुभवान् जनान् आख्यानरूपेण श्रावयति स्म । ततः सम्राजः श्रीहर्षस्य आस्थानकवित्वं प्राप्तवान् सः अचिरात् एव राज्ञः प्रियः अभवत् । एतेन बाणभट्टेन एव 'हर्षचरितं' 'कादम्बरी' इत्येतौ ग्रन्थौ रचितौ । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशी...

कलियुगभीमः राममूर्तिः 16.08.2026

कञ्चन मल्लं जनाः 'कलियुगभीमः' इति निर्दिश्यन्ते स्म | तस्य मल्लस्य नाम कोडिराममूर्तिनायुडु इति | हठयोगस्य अभ्यासं बाल्यात् एव कृत्वा सततेन परिश्रमेण सः भीमबलं सम्पादितवान् आसीत् | बलप्रदर्शनेन यावत् धनं प्राप्यते स्म तत्सर्वं राममूर्तिः दरिद्रेभ्यः ददाति स्म | बहुत्र तेन व्यायामशालाः आरब्धाः | तस्य जीवने घटिता काश्चन घटनाः अस्यां कथायाम् उल्लिखिताः सन्ति | (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टाद...

कुलगौरवरक्षणम् 15.08.2026

दुर्गादासराथोड: कश्चन अप्रतिमवीर: । कथञ्चित् दुर्गादास: मारणीय: इति मोगलाजना: चिन्तयन्त: आसन् । कदाचित् दुर्गादास: पुण्यक्षेत्रस्य दर्शनसमये एकस्यां रात्रौ कस्यचित् मराठदलपते: गृहे वासम् अकारोत् । स: दुर्गादासं मारयित्वा राज्ञा प्रभूतं धनं स्वीकरिष्यामि इति मत्वा खड्गं स्वीकृत्य दुर्गादासं मारयितुम् उद्युक्तः अभवत् । अग्रे किं जातम् इति स्वारस्यकारीं कथां श्रुत्वा जानीमः । (“केन्द्रीयसंस्कृतविश्वव...

किं नु कारणम् ? 14.08.2026

भगवान् बुद्ध: श्रावस्त्यां धर्मोपदेशं करोति स्म । एकाग्रचित्ता: सर्वे जना: सकलम् अन्यद् विस्मृत्य भगवत: वचनं श्रुण्वन्ति स्म । तदवसरे बुद्धेन ज्ञातं यत् कश्चन श्रोता अन्यमनस्क: जात: अस्ति इति । तस्य कारणं पृष्ट्वा समाधानं यच्छति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In Śrāvastī, Lord Buddha was delivering a discourse. All the listeners...

दुराशाग्रस्तता 13.08.2026

मानवेषु आशा भवेत् नाम किन्तु दुराशा कदापि न भवेत् । कदाचित् दुराशाकारणत: यद्यद् लब्धं  तत् सर्वं विलुप्तं भवितुम् अर्हति । इयमेव गति: कश्चन निर्धनस्य जाता अस्यां कथायाम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Among humans, hope is natural, but false or excessive desire should never arise. Often, because of such misguided desire, whateve...

दुश्चरितात् निवृत्तिः 12.08.2026

कश्चन चोर: । धनापहरणं लुण्ठनं मारणं च तस्य प्रवृत्ति: । एतादृशं जीवनं निन्द्यम् इत्यपि जानाति स्म । जीवने उन्नति: साधनीया इति इच्छया स: महात्मनाम् उपदेशं श्रोतुम् अपि गच्छति । कदाचित् गुरुनानकवर्यस्य उपदेशं श्रोतुं गतवान् । तेन दत्तेन मार्गोपायेन स: चोर: दुश्चरितात् निवृत्तिं प्राप्तवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) There was...

पुरुषार्थे स्यात् विश्वासः 11.08.2026

शकटाल: कश्चन भाग्यवादी । पुरुषप्रयत्नात् अपि भाग्यस्य एव श्रेष्ठता अधिका इत्यत्र तस्य विश्वास: । सर्वस्यापि दैवमेव कारणम् इति वदति स्म । किन्तु केचन तादीयम् एतं विश्वासं खण्डयन्ति स्म । कदाचित् स: महावीरं मुनिं दृष्ट्वा तस्य विश्वास: अनुचित: किम् ? इति अपृच्छत् । तत: प्रचिलितेन प्रश्नोत्तरेण शकटालेन ज्ञातं यत् दैवे विश्वास: भवतु किन्तु पुरुषप्रयत्न: कदापि न परित्यक्तव्य: इति । (“केन्द्रीयसंस्कृतवि...

स्थिरं मनः 10.08.2026

सर्वधर्मसम्मेलने भागवहनस्य अनन्तरम् अमेरिकादेशस्य विविधभागेषु विवेकानन्दस्य भाषणस्य आयोजनमपि प्रवृत्तम् । तस्य उपदेशवचनानि श्रोतुं जना: महता प्रमाणेन आयान्ति स्म । भौतिकवादिनां तेषां मनसि विवेकानन्दस्य विषये सन्देह: अपि आसीत् । अत: ते अनेकविधान् प्रश्नान् पृच्छन्ति स्म । अथ कदाचित् तै: निर्णीतं यत् विवेकानन्दस्य परीक्षा करणीया इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...

मधुप्रियः महर्षिः 09.08.2026

आसीत् नैमिषारण्ये कश्चन युवा ऋषिः यस्य न आसीत् किमपि नाम । माधुर्यप्रदानं तस्य ऋषेः स्वभावः । सः अनामिकः ऋषिः कदाचित् दीर्घकालं तपस्याम् अकरोत् । यदा मधुमक्षिकाभिः ऋषेः समाधिभङ्गः जातः तदा श्रीविष्णुः हसन् अवदत् 'ध्यानं कर्तुम् एकस्मिन् स्थाने एव स्थिरतया उपवेष्टव्यम् इति नास्ति । सञ्चरन् अपि मम ध्यानं कर्तुं शक्नोषि' इति । तस्मात् दिनात् आरभ्य सः सदा सञ्चरन् ध्यानम् अकरोत् । माधुर्यात् अन्यत् किम...

सर्वाधिकं मधुरं किम्? 08.08.2026

कदाचित् अकबरः अपृच्छत् 'सर्वाधिकं प्रियं वस्तु किम्’ इति । बीरबलः अवदत् 'मधुरवचनानि एव सर्वाधिकप्रियाणि भवन्ति' इति । अकबरः एतत् न अङ्गीकरोति यतः विशाले जगति मनोहराणि अनेकानि वस्तूनि सन्ति चेदपि मधुरवचनानि एव सर्वाधिकप्रियाणि कथं भवेत् इति । ततः बिरबलः स्वस्य कथनं सप्रमाणं निरूपयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Perhaps Akbar on...

कस्य महत्त्वं कस्मात् ? 07.08.2026

अहमदशाहः जन्मना मुसलमानमतीयः । परन्तु महान् कृष्णभक्तः आसीत् । तस्य भक्त्या सन्तुष्टः कृष्णः तदा तदा दर्शनदानेन तम् अनुगृह्णाति स्म । कदाचित् अहमदशाहः उन्नताकारं शिरस्त्रं धृतवान् आसीत् । तदवसरे तस्य पुरतः कृष्णः‌ प्रत्यक्षीभूय सविनोदम् अपृच्छत् 'किम् एतत् शिरस्त्रं मह्यं विक्रेतुम् अर्हेत् भवान् ?’ इति । श्रीकृष्णस्य वचनं‌ श्रुत्वा अहमदशाहे अपि प्रीत्युद्रेकः जातः । ततः जातं तयोः सम्भाषणम् एव  एत...

विदेही कः ? 06.08.2026

जनकमहाराजः 'विदेही' नाम्ना अपि निर्दिश्यते स्म । 'देहधारी अपि भवान् 'विदेही' इति किमर्थं निर्दिश्यते?’ इति कश्चन मन्त्री जनकमहाराजम् अपृच्छत् । तदा राजा केषाञ्चित् दिनानाम् अनन्तरम् उत्तरं वदिष्यामि इति अवदत् । केषाञ्चित् दिनानाम् अनन्तरम् एकेन निर्दर्शनेन 'देहविषये यस्य ममकारः सर्वथा न भवेत् सः उच्यते 'विदेही' इति सिद्धान्तयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथ...

असहायाः न पीडनीयाः 05.08.2026

गुर्जरदेशस्य राजा कुमारपालः कदाचित् वेषान्तरं धृत्वा सञ्चरन् स्मशानभूमिसमीपे कस्याश्चित् रोदनं श्रुतवान् । तस्य कारणम् आसीत् यत् अपुत्रायाः तस्याः महिलायाः पतिः यः वाणिज्यार्थं देशान्तरं गतः आसीत् सः तत्रैव मृतः आसीत् । 'रुदतीवित्त'नाम्ना निर्दिश्यमाना अपुत्रायाः सम्पत्तिः राजाधीना भवेत् इति नियमः आसीत् । अतः सा महिला गृहे रोदनं न अकरोत् । धनाशया अनुचिताः नियमाः न पालनीयाः इति मत्वा सः राजा तं निय...

गुणग्राहिता 04.08.2026

कदाचित् देवलोके गुणानां विषये चर्चा प्रवृत्ता । 'गुणाः भवेयुः किन्तु गुणग्राहिता तु दुर्लभा' इति कश्चन देवः वदति । तदा अपरः देवः वदति 'मानवानां मध्ये अपि गुणग्राहिणः भवन्ति । एकं तु अहं जानामि' इति । तस्य मानवस्य परीक्षां कर्तुं तौ देवौ वेषान्तरं धृत्वा भूलोकं प्रति आगतौ । परीक्षायाम् उत्तीर्णः जातः सः मानवः । ततः देवौ स्वीयं रूपं‌ धृत्वा तं मानवम् आशिषा अनुगृह्य ततः अदृश्यतां गतवन्तौ । (“केन्द्री...

विनयः विधेयता च 03.08.2026

चक्रवर्तिनः मनोः शतरूपायाः च पुत्री देवहूतिः अनुपमसुन्दरी, सौम्यस्वभावा, सकलविद्यापारङ्गता च आसीत् । नारदमहर्षिस्वारा ज्ञातं यत् तस्याः योग्यः वरः कर्दममहर्षिः अस्ति इति । नारदस्य कथनं पुरस्कृत्य मनुः शतरूपा च पुत्र्या देवहूत्या सह कर्दममहर्षेः आश्रमं गतवन्तौ । यद्यपि देवहूत्याः रूपज्ञानादयः सर्वत्र ख्याताः तथापि तस्याः स्वभावः कीदृशः अस्ति इति महर्षिणा लघु परीक्षा कृता । तस्याः स्वभावोत्कृष्टतां...

देशीयम् एव उपयोक्तव्यम् 02.08.2026

कश्चन विदेशीयः वणिक् बहुविधानि काचनिर्मितानि वस्तूनि राज्ञः रणजितसिंहस्य आस्थानं प्रति आनयति । राजा केनचित् निर्दर्शनेन दर्शयति यत् विदेशीयेन आनीतानि वस्तूनि चित्तकर्षकानि सन्ति चेदपि वास्तवमूल्यरहितानि । अस्माकं देशे निर्मितानि पात्रादीनि वस्तूनि बहूपयोगीनि, नाशानन्तरमपि मूल्यवन्ति । शाश्वतमौल्ययुक्तानि स्वदेशीयानि वस्तूनि एव वयं क्रेतुम् इच्छामः, न तु मोहकमात्राणि विदेशीयवस्तूनि इति । (“केन्द्री...

Lyt til podcasten बालमोदिनी i Replaio

Radio og podcasts i én app - gratis og uden tilmelding. Installer i dag, og gå ikke glip af lanceringen

Hent den på Google Play

Replaio er ikke podcastudgiver; programmernes navne, coverbilleder og lyd tilhører deres ophavsmænd og distribueres via offentlige RSS-feeds.