सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Husk at besøge podcastens hjemmeside og støtte skaberen: sambhashanasandesha.in
Forfatter
सम्भाषणसन्देशः
Kategori
Podcastens hjemmeside
Seneste episode
11. jul. 2026
Hvor kan du lytte?
Podcasts i appen Replaio Radio Kommer snartPodcasts kommer snart til appen. Installer nu, og vær den første til at se en helt ny tilgang til podcasts
Episoder
समयप्रज्ञा 14.09.2025 3:38
कश्चन बुद्धिमान् युवकः दुर्गादासः कदाचित् रात्रौ 'चोरः चोरः' इति चीत्कारं कृतवान् । तदा ग्रामीणाः सर्वविधानि आयुधानि स्वीकृत्य चोरं ग्रहीतुम् आगतवन्तः । किन्तु न्यग्रोधवृक्षस्य पुरतः महान् व्याघ्रः तैः दृष्टः । अनुक्षणमेव सर्वे मिलित्वा लवित्रैः दण्डैश्च तं मारितवन्तः । अनन्तरं जनाः 'किमर्थं चोरः इति उक्तवान् भवान्' इति यदा अपृच्छन् तदा मन्दहासपूर्वकं अवदत् दुर्गादासः 'चोरः इति मत्वा भवन्तः सर्वे...
वास्तविकः ज्ञानी 13.09.2025 5:00
महर्षेः कणादस्य प्रसिद्धिं श्रुत्वा तत्रत्यः राजा तस्य दर्शनलाभं प्राप्तुम् इष्टवान् । सः महर्षिं नमस्कृत्य सेवकानां द्वारा नीतानि वज्रवैडूर्यादिभिः पूर्णानि पात्राणि अयच्छत् । किन्तु महर्षिः उपायनं न स्वीकृतवान् । किमर्थम् इति पृष्टे महर्षिः अवदत् 'महाराज ! जनानां वचनं श्रुत्वा मह्यम् उपायनं दीयते भवता । यदि जनाः मम विषये दुर्वचनानि अवदिष्यन् तर्हि भवान् मह्यं दण्डनम् अदास्यत् । केवलं कर्णाभ्यां...
न फलति भाग्यम् अलसस्य 11.09.2025 5:07
सुमन्तकनामकः कश्चित् अलसः गृहजनैः पुनः पुनः उपदेशे कृते गृहमेव परित्यज्य गतवान् । भिक्षावृत्त्या उदरपोषणं कुर्वन् ग्रामान् नगराणि च अटितवान् । कदाचित् भगवती लक्ष्मीदेवी सुमन्तकं दृष्ट्वा अतीव दयापूर्णा जाता । सा स्वपतिं विष्णुं किमपि साहाय्यं कर्तुम् अवदत् । एषः सर्वथा अलसः इत्यतः तस्य भाग्यं न फलति इति अवदत् विष्णुः । लक्ष्म्याः पुनः पुनः अनुरोधेन सः एकं रत्नैः पूर्णं घटं सुमन्तकस्य मार्गे स्थापि...
अश्रुतपूर्वा कथा 11.09.2025 3:35
कश्चन धूर्तः काणः अधिकं धनं सम्पादयितुम् एकम् उपायं करोति । 'यदि कश्चन अश्रुतपूर्वां कथां वदति तर्हि तस्मै वंशागतं सुवर्णपात्रं ददामि । यदि कथा श्रुतपूर्वा स्यात् तर्हि तेन एव मह्यं पञ्चशतं दीनाराः दातव्याः' इति घोषणं कारितवान् । बहवः जनाः कथाः श्रावितवन्तः । अन्ते श्रुतपूर्वा कथा एषा इति उक्त्वा तेभ्यः पञ्चशतं दीनारान् प्राप्नोति स्म । कदाचित् एकः चतुरः युवकः आगत्य 'भवान् स्मरसि खलु भवतः पित्रा...
दोषः कस्य ? 10.09.2025 4:38
चोरः सञ्जीवः न्यायाधीशं वदति 'यदा चौर्यं करोमि तदा मम माता कदापि मां न तर्जितवती । अतः मात्रे दण्डनं दीयताम्' इति । माता वदति 'पतिः मद्यपानार्थं धनं पृच्छति । अतः पतिं दण्डयतु' इति । पतिः वदति 'पिता मां बाल्यकाले एव त्यक्त्वा कारागृहं गतवान्' इति । पिता वदति 'कञ्चित् सज्जनम् आतङ्कवादिनः मारितवन्तः इति आरक्षकप्रमुखं निवेदितवान् । किन्तु भवान् एव आतङ्कवादी' इति उक्त्वा मां कारागृहं प्रेषितवान् । आरक...
विवेकः 09.09.2025 4:21
कदाचित् विश्वविजयिनः सिकन्दरस्य भूरिधनस्य आवश्यकता आपतिता । तदा सः बन्धिनः उद्दिश्य 'समीपे खनिः अस्ति । यः सहस्रं नाणकानि सम्पाद्य मह्यं समर्पयति, तं दासमुक्तं करोमि' इति उक्तवान् । सर्वे अहर्निशं कार्यम् आरब्धवन्तः । एकः युवकः सहस्रं नाणकानि दत्तवान् इत्यतः भवान् मुक्तः इति यदा सिकन्दरः अवदत् तदा सः युवकः समीपे स्थितं कञ्चित् विकलाङ्गं दर्शयित्वा तस्य मोचनं करोतु इति उक्तवान् । यतः सः युवकः पुनरप...
मूल्यं मनुष्यस्य 08.09.2025 4:29
पुराकाले कलिङ्गराज्यम् अशोकः पालयति स्म । इयं कथा अशोकस्य तस्य मन्त्रिणः च मध्ये प्रचलिता घटना नाम । अनया घटनया अशोकः मन्त्रिणं दर्शयति यत् 'यावत् जीवामः तावदेव मनुष्यस्य मूल्यम् । जीवाभावे मनुष्यशरीरं व्यर्थमेव । अतः यावत् जीवामः तावत् सत्पुरुषाणां महात्मनां च पादकमलयोः शिरःस्थापनेन जीवनस्य धन्यता प्राप्तव्या अस्माभिः' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां...
न शाम्यति वैरं वैरेण 07.09.2025 4:51
कदाचित् काशीनगरस्य क्रूरः दुष्टः च महाराजः विजयदत्तः अन्यस्य राज्यस्य गुणवतः प्रजावत्सलस्य राज्ञः धर्मप्रियस्य उपरि आक्रमणं कृतवान् । जयम् अपि प्राप्तवान् । धर्मप्रियः पुत्रम् अर्जनसिंहम् अवदत् 'विजयदत्तस्य विषये मनसि वैरभावं न स्थापयतु' इति । विजयदत्तः धर्मप्रियस्य तस्य पत्न्याः च शिरश्छेदं कारितवान् । गच्छता कालेन अर्जुनसिंहः धर्मप्रियस्य पुत्रः इति अजानन् विजयदत्तस्य अङ्गरक्षकत्वेन नियुक्तः अभव...
शुकस्य कृतज्ञता 06.09.2025 3:28
कदाचित् कश्चन पथिकः पञ्जरे निबद्धं शुकं नीत्वा राज्ञः समीपम् आगतवान् । सः शुकः न केवलं भाषणे समर्थः आसीत् अपि च मुखलक्षणं दृष्ट्वा भाविवृत्तान्तमपि कथयति स्म । सन्तुष्टः राजा शुकम् अपृच्छत् 'यद्यपि भवतः स्वामी पञ्जरस्य बन्धनं सर्वदा न करोति तथापि भवान् किमर्थं बहिः न पलायते?’ इति । तदा शुकः अवदत् 'अहं कृतघ्नः न । मम स्वामी माम् आश्रित्य एव जीवनं करोति । अतः स्वामिनं त्यक्त्वा गन्तुं नेच्छामि' इति...
स्थानस्य प्रभावः 05.09.2025 3:09
कस्मिंश्चित् वने चोराः एकस्मिन् कुटीरे वसन्ति स्म । कदाचित् राजभटैः चोराः गृहीताः, कारागारे स्थापिताः च । कदाचित् एकः साधुः वने अटन् तमेव कुटीरम् आश्रितवान् । एकदा वर्षाकाले कश्चन युवकः पत्न्या सह वृष्टितः रक्षणं प्राप्तुं तस्मिन् कुटीरे स्थितवान् । साधोः मनसि दुर्भावना उत्पन्ना । दम्पती गन्तुम् उद्युक्तौ तदा साधुः छुरिकां गृहीत्वा यदा तयोः समीपम् आगतवान् तदा मनसः दुर्भावना अपगता । पुनः यदा कुटीरं...
भक्तः दामाजी पन्तः 04.09.2025 7:46
पुरा मङ्गलवेढाग्रामे दामाजीपन्तः नाम परमदयालुः दैवभक्तः दानशीलश्च आसीत् । यवनराजस्य शासनाधिकारिरूपेण कार्यं करोति स्म । कदाचित् पण्ढरपुरतः आगवद्भ्यः जनेभ्यः धान्यागारतः यथेष्टं धान्यं वितीर्णवान् । एतेन कुपितः यवनराजः पान्थम् आनाययति । मार्गमध्ये सः पण्ढरिनाथस्य मदिरं गत्वा भक्त्या प्रार्थितवान् । भक्तवत्सलः पण्ढरिनाथः दामाजीपन्तस्य सेवकरूपं धृत्वा सपादलक्षमुद्रायुक्तं स्यूतं यवनराजाय दत्त्वा प्र...
चरति चरतो भगः 03.09.2025 2:40
कश्चित् श्रान्तः पथिकः अग्रे गन्तुम् अनिच्छन् वृक्षस्य अधः उपविष्टं वृद्धं 'ग्रामः कियत् दूरे अस्ति?’ इति अपृच्छत् । किन्तु सः वृद्धः किमपि न उक्तवान् । कुपितः पथिकः मनसा एव वृद्धं निन्दन् यदा अग्रे गन्तुम् उद्युक्तः तदा वृद्धः उच्चस्वरेण तम् आहूय अवदत् 'ग्रामः क्रोशमितदूरे अस्ति' इति । उत्तरं दत्त्वा अपि भवान् अग्रे न चलति चेत्, मम उत्तरं व्यर्थं स्यात् । अतः पूर्वम् उत्तरं न दत्तवान् । यदा भवान्...
गन्तव्यः मार्गः 02.09.2025 4:57
कस्मिंश्चित् गृहे द्वौ मृद्घटौ दुग्धेन पूर्णौ आस्ताम् । प्रथमघटस्थं दुग्धं 'सुवर्णकुम्भे मां स्थापयतु इति गृहस्वामिने' अवदत् । तथैव अकरोत् स्वामी । 'उष्णीकरणं मास्तु, आतञ्चनं मास्तु' इत्यादि अवदत् प्रथमघटस्थं दुग्धम् । किन्तु मृद्घटस्थेन दुग्धेन किमपि नोक्तम् । अतः स्वामी तम् उष्णीकृत्य तस्मिन् आतञ्चनमपि कृतवान् । एतत् सर्वं दृष्ट्वा प्रथमघटस्थं दुग्धं मृद्घटस्य दुग्धस्य उपहासं करोति 'भवतः वर्णः न...
मूल्यं दुधस्य 01.09.2025 4:13
प्रतिदिनं काचित् गोपिका साधोः आश्रमम् आगत्य अर्धलीटर्मितं दुग्धं मापकेन मापयित्वा साधोः भाण्डे स्थापयति । किन्तु आश्रमस्य पार्श्वे वसते ब्रह्माचरिणे दुग्धपात्रे अवशिष्टं समग्रं दुग्धं समर्पयति । वस्तुतः ब्रह्मचारिणे अपि अर्धलीटर्मितं दुग्धम् एव दातव्यम् । एतत् निरीक्ष्य साधुः पृष्ट्वान् किमर्थम् एषा प्रतारणा इति । तदा गोपिका अवदत् 'भवान् जपमालां गृहीत्वा मणिभिः गणनां कुर्वन् जपं करोति । अतः भवते...
कः महामूर्खः ? 31.08.2025 6:06
कस्मिंश्चित् ग्रामे दामोदरः नाम कश्चन महामूर्खः दरिद्रः च आसीत् । कस्यचित् संन्यासिनः वचनानुसारं तस्य भाग्यान्वेषणार्थं पूर्वाभिमुखं प्रयाणम् आरब्धवान् । मार्गमध्ये एकः सिंहः, एकः उद्यानपालः, एकः राजा च तेषां समस्यायाः समाधानं भाग्यदेवतां पृष्ट्वा वदतु इति निवेदितवन्तः । चतुर्दशदिनानि यावत् प्रयाणं कृत्वा संन्यासिना उक्तं पर्वतं प्राप्य गुहायां कश्चन निद्रितवान् आसीत् । भवान् कः ? इति पृष्टे सः उक...
रामसेवाचूडामणिः हनूमान् 30.08.2025 5:43
यदा श्रीरामः रावणं निहत्य प्रत्यागत्य सिंहासने अभिषिक्तः तदा सीतालक्ष्मणभरतशत्रुघ्नाः रामस्य समीपं गत्वा 'एतावत्पर्यन्तं हनूमान् एव सकलां सेवां करोति स्म । अतः अस्मभ्यं भवतः सेवाभाग्यं ददातु' इति अयाचन्त । रामः वदति 'भवन्तः कार्याणाम् आवलींं लिखन्तु । किमपि कार्यम् अवशिष्टं चेत् तत् हनूमान् करोति' इति । सीतादयः सुसूक्ष्मतया आवलीं सज्जीकृतवन्तः । हनूमान् यदा आवलीम् अपश्यत् तदा सर्वाणि कार्याणि तैः...
एतत् भवदीयम् .. 29.08.2025 2:32
कश्चन नितरां धर्मनिष्ठः दानशीलः च आसीत् । कदाचित् राजभवनम् आगतवते तापसाय राजा अवदत् 'अहं भवते अत्यमूल्यं कमपि उपहारं ददामि' इति । तापसः 'आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु' इति अवदत् । राजा राज्यकोषं, राजभवनं, रथादिकं ददामि इति यदा वदत् तदा तत्सर्वं प्रजाजनानम् इति अवदत् तापसः । शरीरमपि मातापितृभ्यां दत्तम्, अतः तदपि भवतः न इत्युक्तं तापसेन । यदा राजा विस्मयेन मूढः जातः तदा तापसः अवदत् 'भवतः...
विश्वासः नास्ति किम् ? 28.08.2025 3:05
कदाचित् कश्चित् दरिद्रः मन्दिरे गणेशं प्रार्थयते यत् गृहगमनसमये मार्गे यथा धनं प्राप्नुयां तथा माम् अनुगृह्णातु इति । यत् प्राप्नोमि तस्य अर्धभागं भवते अर्पयामि इति । आश्चर्यम्! मार्गमध्ये किञ्चित् धनं दृष्टिगोचरम् अभवत् । तत्र पञ्चाशत् रूप्यकाणि आसन् । मन्दिरं गत्वा गणेशस्य पुरतः स्थित्वा 'किं भवतः मयि विश्वासः नास्ति ? यद् लभ्यते तत्र अर्धभागं निश्चयेन भवते समर्पयामि इति अहम् उक्तवान् खलु? तर्ह...
अयि, मयेदं किं कृतम् ! 27.08.2025 2:44
मृगयाव्यसनः कश्चन युवा भुषुण्डिम् आदाय अश्वम् आरुह्य मृगयार्थं वनम् अगच्छत् । तत्र च हंसयूथं रममाणं दृष्ट्वा तेन स्वभुषुण्डितः गोलिका मुक्ता । गोलिकया एकः हंसः विद्धः सन् चीत्कारं कृतवान् । सः युवा अश्वात् अवतीर्य तत्पार्श्वे गतः । तीव्रव्यथया चीत्कुर्वन्तं हंसं च दृष्टवान् । किञ्चित्कालनन्तरं सः हंसः प्राणैः विमुक्तः जातः । मृतं स्वप्रियतमं विज्ञाय तत्प्रियतमा हंसी करुणं विलपति स्म । सर्वं दृश्य...
सत्सङ्गस्य श्रेष्ठत्वम् 26.08.2025 6:13
कदाचित् विश्वामित्रस्य तपोबलं श्रेष्ठम् उत वसिष्ठस्य सत्सङ्गफलं श्रेष्ठम् इति प्रश्नः उद्भूतः । तद्विषये निर्णयं कर्तुं तौ ब्रह्मणः समीपं गतवन्तौ किन्तु ब्रह्मा विष्णोः समीपं प्रेषयति । विष्णुः शिवस्य समीपं, शिवः आदिशेषस्य समीपं प्रेषयति च । विश्वामित्रवसिष्ठयोः विवादं श्रुत्वा आदिशेषः अवदत् 'भवतोः कोऽपि स्वप्रभावेण मम मस्तकस्थां पृथिवीं क्षणकालं यावत् आकाशे निरालम्बां धारयतु' इति । महर्षिः विश्वा...
सा मञ्जुला कोकिला 25.08.2025 7:04
किं भवद्भिः ज्ञायते यत् अमृतात् जातः वृक्षः आम्रवृक्षः इति ? किन्तु कथं स्वर्णकुम्भात् अमृतबिन्दुः पतितः? गरुडेन कथम् अमृतबिन्दुः पातितः ? गानविद्याविलासिनी गन्धर्वकन्या मञ्जुला गरुडं यदा अनुसृतवती तदा किं जातम् ? विष्णोः शापेन मञ्जुला का अभवत् ? इति सर्वं कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Do you know that the...
पात्रताम् अनुसृत्य 24.08.2025 3:12
उद्यानपालकेन श्रावितेन पद्येन सन्तुष्टः राजा 'मनोभिलषितं याचतु' इति अवदत् । तदा उद्यानपालकः सहस्रं सुवर्णनाणकानि अयाचत् । किञ्चित् 'न्यूनं याचतु' इति यदा राजा अवदत् तदा एकं नाणकं ददातु इति अवदत् उद्यानपालकः । आश्चर्यस्तब्धः राजा अपृच्छत् 'किमर्थम् अनयोः मध्ये एकां संख्यां न उक्तवान्' इति । तदा सः अवदत् 'पुत्र्याः विवाहार्थं धनम् अपेक्षितम् । प्रथमवारम् अहं भवतः स्थानं, पात्रतां व्यक्तित्वं च दृष्...
काकः चलति हंसगत्या 23.08.2025 3:55
कदाचित् गर्विष्ठः काकः हंसेन सह स्पर्धार्थं सन्नद्धः जातः । हंसः काकश्च उड्डयनम् आरब्धवन्तौ । काकः स्वसामर्थस्य कौशलस्य च प्रदर्शनाय भिन्नप्रकारेण उड्डयनम् अकरोत् । हंसः तु समानगत्या उड्डयते स्म । ततः हंसः सागराभिमुखः जातः । किञ्चित्कालाभ्यन्तरे अनभ्यासेन उड्डयनेन च तस्य शरीरे स्वेदः जातः । परन्तु परितः सम्पूर्णतया जलराशिः । तस्मात् भीतः काकः मम मरणं निश्चितम् इति विचिन्त्य प्राणान् रक्षितुं हंसं...
अहङ्कारी मशकः 22.08.2025 5:44
कस्मिंश्चित् वने कश्चित् मशकः खलबुद्ध्या विनाकारणं कस्यचित् कर्णयोः कस्यचित् नासिकारन्ध्रे वा प्रविश्य तान् पशून् विचलितान् करोति स्म । सर्वे पशवः मिलित्वा मशकस्य अत्याचारविषयम् अवदन् । किन्तु सिंहः गजः च किमपि कर्तुम् अशक्तौ जातौ । सः मशकः अहङ्कारी भूत्वा पशून् अवदत् 'प्रतिदिनं भवत्सु अन्यतमः मम रुधिरपिपासां पूरयन्तु' इति । सर्वे पशवः अङ्गीकृतवन्तः । प्रथमः पर्यायः कस्यचित् कच्छपस्य आसीत् । सः कञ...
क्षणस्थायि सौन्दर्यम् 21.08.2025 3:13
कश्चन अतीवसुन्दरः विवाहयोग्यः च राजकुमारः अश्वारूढः सन् वनमार्गेण गच्छन् आसीत् । तदा एका सुन्दरी युवतिः दृष्टा यां सः परिणेतुम् इष्टवान् । राजा तां सुन्दरीम् आनाय्य यदा विवाहस्य प्रस्तावं कृतवान् तदा सा सुन्दरी निराकृतवती । पुनः पुनः रजकुमारेण निवेदिते सति सा अङ्गीकृतवती । किन्तु सप्ताहं यावत् प्रतीक्षां करोतु इति अवदत् सा । अनतरं तया या परीक्षा कृता तेन राजकुमारस्य ज्ञानोदयः जातः । सः प्रतिज्ञाम्...
Replaio er ikke podcastudgiver; programmernes navne, coverbilleder og lyd tilhører deres ophavsmænd og distribueres via offentlige RSS-feeds.